२६८

पति त्यं हर्यतं हरिम्

इति परिवतीर्भवन्त्यन्तसय्रूपम् ।

अन्तो ह्येतदहः ।

बभ्रुं पुनन्ति वारेण ।

यो देवान्विश्वं इत्परि

इति विश्वावतीर्भवन्ति ।

वैश्वदेवं ह्येतदहः ।

मदेन सह गच्छती

ति मद्वतीर्भवन्ति ।

अभिपूर्वमेवैतत्तृतीयसवने रसं मदं दधति ।

द्विर्यं पञ्च स्वयशसं स्वसारो अद्रि संहतम् ।

प्रियमिन्द्र स्य काम्यं प्रस्नापयन्त ऊर्मयः

इत्याशिषमेवैतेनाशास्ते ।

इन्द्रा य सोम पातवे वृत्रघ्ने परि षिच्यस

इति वर्त्रघ्न्यो भवन्त्यन्ततो विजित्यै ।

तासु गौरिवीतमुक्तब्राह्मणम् ।

अथ निहवः ।

इन्द्रो वै तृतीयसवनाद्बीभत्समान उदक्रामत् ।

धीतमिव ह्यासीत् ।

तमेतेन विश्वे देवास्साम्नान्वह्वयन्तायिही आयिही इति ।

ततो वा इन्द्र स्तृतीयसवनमुपावर्तत ।

ततोऽस्मादनपक्रम्यभवत् ।

तदेतत्सेन्द्रं साम ।

सेन्द्रो हास्य सदेवो यज्ञो भवति ।

अभ्यस्येन्द्रो यज्ञमावर्तते ।

नास्येन्द्रो यज्ञादपक्रामति य एवं वेद ।

तद्वेवाचक्षते वसिष्ठस्य निहव इति ।

वसिष्ठो वै जीतो हतपुत्रोऽकामयत प्रजां पशून्निह्वयेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

तेनायिही आयिही इत्येव प्रजां पशून्न्यह्वयत ।

तद्वेव निहवत्वम् ।

प्रजां पशून्निह्वयते य एवं वेद ।

तदु स्तोभानुतुन्नं भवति ।

अनुतुन्नाद्वै प्रजाः पशवः प्रजायन्ते ।

पशवश्छन्दोमाः ।

तेन वै रूपसमृद्धम् ।

यदु वसिष्ठोऽपश्यत्तस्माद्वासिष्ठस्य निहव इत्याख्यायते २६८