२६७

तासु वैश्वमनसम् ।

विश्वमनसं वै समिद्धारं परेतमरण्य ऋक्षोऽविन्दत् ।

सोऽकामयतापर्क्षं हनीयेति ।

स एतत्सामापश्यत् ।

तदभ्यगायत ।

तमिन्द्रो ऽपश्यद्विश्वमनसमृक्षोऽविददिति ।

तमभ्याद्र वत् ।

तस्याद्र वत श्वसथात्प्राव्लीयत ।

तमपृच्छद्विश्वमनः कस्त्वैष्परेणेति ।

सूर्मी मघवन्निति ब्रूहीत्यब्रवीत् ।

सूर्मी मघवन्नित्यब्रवीत् ।

अङ्गैनां दण्डेनाभिजहीति सोऽब्रवीत् ।

तृणकमाछिद्र य्! शनैरध्यस्येति ।

तं तृणकमाछिद्य शनैरध्यास्यत् ।

तदेवेन्द्रो वर्जमसिञ्चत् ।

तस्यो तदेव प्राघ्नन् ।

तदु भ्रातृव्यहा रक्षोहा साम ।

हन्ति द्विषन्तं भ्रातृव्यं । अप रक्षः पाप्मानं हते । य एवं वेद ।

यदु विश्वमना अपश्यत्तस्माद्वैश्वमनसमित्याख्यायते २६७