२६६

अथ काशीतम् ।

कशीतिं वै सौभरं सत्रे यक्ष्माविन्दत् ।

सोऽकामयन्ताप यक्ष्म हनीयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।

प्र न आयूंषि तारिषत्

यददो वात ते गृहेऽमृतस्य निधिर्हितः ।

ततो नो देहि जीवसे

उत वात पितासि न उत भ्रातोत नस्सखा ।

स नो जीवातवे कृधि

इति वात एवास्मै भेषजमकरोत् ।

तदेतद्भेषजं प्रायश्चित्तिं कुर्वते ।

तदु कामसनि एतं वै स काममकामयत ।

सोऽस्मै कामस्समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।

तस्यो प्रतीचीमिळामुपयन्ति । छन्दोभेभ्यो नेत्पराञ्चोऽतिपद्यामहा इति पशवो वा इळा ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

यदु कशीतिस्सौभरोऽपश्यत्तस्मात्काशीतमित्याख्यायते ।

अथाश्वसूक्तमुक्तब्राह्मणम् ।

तत्पञ्चाक्षरणिधनं भवति पञ्चपदा वै पङ्क्तिः ।

पाङ्क्ताः पशवः ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

अथ शाम्मदमुक्तब्राह्मणम् ।

अथ हाविष्कृतमुक्तब्राह्मणं निरुक्तिर्हविषः ।

तच्चतुरक्षरणिधनं भवति चतुष्पदा वै पशवः ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

त्वं ह्यङ्ग दैव्ये

ति त्वमिति भवति बृहतो रूपम् ।

बार्हतमेतदहः ।

पवमान जनिमानि द्युमत्तम

इति जनद्वतीर्भवन्ति ।

जनद्वद्वै जगत्यै रूपम् ।

जागतमेतदहः ।

तासु सौपर्णमुक्तब्राह्मणम् ।

पवस्व देववीतय

इति सर्वदेवत्यं भवति ।

वैश्वदेवं ह्येतदहर्जागतम् ।

तव द्र प्सा उदप्रुत इन्द्रं मदाय वावृधुर्

इति वृद्धं ह्येतदहः ।

आ नस्सुतास इन्दव

इत्यावतीर्भवन्त्यनतिपादायैव २६६