त्वं सोमासि धारयुर्
इति धृत्यै ।
अन्तमिव ह्येतर्हि गच्छन्ति छन्दोमेभ्यो नेत्पराञ्चोऽतिपद्यामहा इति ।
त्वं सुतो मदिन्तम
इति मद्वतीर्भवन्ति रसो वै मदः ।
धीतमिवैतद्यत्तृतीयसवनम् ।
तद्यदेता मद्वतीर्भवन्ति रसमेवास्मिन्नेतद्दधति ।
षवैनदेतेन प्याययन्ति ।
त्वं सुष्वाणो अद्रि भिर्
इति त्वमिति भवति बृहतो रूपम् ।
बार्हतमेतदहः ।
अभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्ममुत्तममित्युत्तमो ह्येष त्र्यहः क्रियते यश्छन्दोमाः ।
तास्समानप्रभृतओ भवन्ति नानोदर्काः ।
इदं वै प्रथमं पदमिदं द्वितीयमदस्तृतीयम् ।
तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते ये द्वादशाहयाजिनोऽन्तमिव हि गच्छन्ति ।
तद्यदेतास्समानप्रभृतयो भवन्ति नानोदर्क्क्ताअस्मिन्नेवैतल्लोके प्रतितिष्ठन्ति ।
नानाप्रभृतयस्समानोदर्काष्षष्ठेऽहन्भवन्ति ।
अमुष्मिन्नुताभिर्लोके प्रतितिष्ठन्ति ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथैदावसुनिधनं बहिर्निधनं बार्हतम् ।
तस्माद्बार्हतेऽहन्क्रियते ।
असुर्ह वै नामर्षिरपशुरास ।
सोऽकामयताव पशून्रुन्धीयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स इदं वस्वित्येव निधनमुपैत् ।
तदेवैदावसुनिधनस्यैदावसुनिधनत्वम् ।
तत्पशवो वै वसु ।
ततो वै स पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
तच्चतुरक्षरणिधनं भवति चतुष्पदा वै पशवः ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै २६५