२६४

अङ्गारमिश्राद्भस्मनस्तिस्रो वशा असृज्यन्त मैत्रावरुणी बार्हस्पत्या वैश्वदेवी ।

भस्मन एव गर्दभोऽसृज्यत ।

तस्मात्स भस्मनः प्रतिरूपः ।

तस्मात्स बभ्रियमाणो जीवति ।

तदेतद्वीरजननं पशव्यं साम ।

वीरा वै तदजायन्त यदङ्गिरसः ।

एत उ पशवोऽसृज्यन्त ।

अस्य वीरो जायतेऽव पशून्रुन्द्धे । बहुपशुर्भवति य एवं वेद ।

स यो यज्ञविभ्रष्ट स्याच्छ्रायन्तीयमस्य पृष्ठेषु ब्रह्मसाम कुर्युः ।

पृष्ठानि च वा एतं स्तोत्राणि चावधून्वते यो यज्ञस्य विभ्रष्टः ।

पृष्ठेषु चैवैनं तत्स्तोत्रेषुच प्रतिष्ठापयन्ति ।

यत इन्द्र भयामहे ततो नो अभयं कृधि ।

मघवञ्शग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि

इति मृध एवैतेन पाप्मानमपघ्नते ।

तासु समन्तमुक्तब्राह्मणम् ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठन्ति २६४