२६३

स एष इषुस्त्रिकाण्डः ।

तस्मात्पृषतोऽस्वादुतमः ।

तस्मादु शोचतीव ।

तस्य विद्धस्य रेतः परापतत् ।

तद्धिमवति प्रत्यतिष्ठत् ।

तन्मानुषमभवत् ।

तद्देवाश्चर्षयश्चोपसमेत्याब्रुवन्मेदं दुषद इति ।

यदब्रुवन्मेदं दुषदिति । तन्मादुषस्य मादुषत्वम् ।

मादुषं ह वै नामैतत् ।

तन्मानुषमित्याख्यायते ।

तदग्निना पर्यैन्धत ।

मरुतोऽधमन् ।

श्रायन्तीयेनैनदश्रीणन् ।

तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् ।

ततः पशवोऽसृज्यन्त ।

ये प्रथमेऽसृज्यन्त ते रोहिताः ।

येऽभितप्यमानादसृज्यन्त तेऽरुणाः ।

येऽभितप्तादसृज्यन्त ते बभ्रवः ।

ये दह्यमानादसृज्यन्त ते श्वेताश्च कृष्णाश्च ।

तस्माद्वयमेवाग्निर्दहति श्वेतं चैव कृष्णं च ।

विष्फुलिङ्गाभ्य एवाजाश्चैणेयाञ्चासृज्यन्त । अङ्गारेभ्योऽङ्गिरसः २६३