२६२

तासु श्रायन्तीयम् ।

देवा वै सत्रमुपयन्तोऽब्रुवन्यन्नः क्रुरमात्मनस्तन्निर्भिमामहै ।

मा सक्रूरा उपगामेति ।

तद्यदेषां क्रूरमात्मन आसीत् । तन्निर्माय शरावयोस्सम्मार्जं न्यदधुः ।

अथ सत्रमुपायन् ।

तत एषोऽखलो देवोऽजायत ।

तद्यच्छरावाभ्यामजायत । तदस्यैतन्नाम ।

एष ह वाव सोऽग्निर्जज्ञे ।

न हैनमेष हिनस्ति य एवं वेद ।

स देवानब्रवीत्कस्मै मामजीजनतेति ।

औपद्र ष्ट्र्यायेत्यब्रुवन्योऽतिपादयात्तं हनासा इति ।

प्रजापतिर्होषसं स्वां दुहितरमभ्यध्यायत् ।

सास्मै रोहिद्भूत्वातिष्ठत् ।

तां पृषतो भूत्वास्कन्दत् ।

स षक्षतास्मै वै मां देवा अजीजनन्नौपद्र ष्ट्र्याय ।

अति वा अयं पादयति । हन्तैनं विध्यानीति ।

तमविध्यत् ।

स विद्ध एतद्रू पं प्रत्यस्योर्ध्व उदक्रामत् २६२