अथ बृहत् ।
वर्ष्म वै बृहत् ।
वर्ष्मण्येवैतत्प्रतितिष्ठन्तो यन्ति ।
तज्जागतेऽहन्भवति ।
पुंसो वा एतद्रू पं यद्बृहत्स्त्रियै जगती ।
तद्यदत्र बृहत्पृष्ठं भवति । तेनैवैतदहर्मिथुनं क्रियते ।
अथ वामदेव्यम् ।
पशवो वै वामदेव्यम् ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
श्रायन्त इव सूर्यं विश्वेदिन्द्र स्य भक्षते
ति विश्ववतीर्भवन्ति ।
वैश्वदेवं ह्येतदहः ।
वसूनि जाते जनिमान्योजसे
ति जनद्वतीर्भवन्ति ।
जनद्वद्वै जगत्यै रूपम् ।
जागतमेतदहः ।
प्रति भागन्न दीधिमः
अलर्षिरातिं वसुदामुप स्तुहि भद्रो इ द्र स्य रातयः ।
यो अस्य कामं विधता न रोषति मनो दानाय चोदयन्
इत्याशिषमेवैतेनाशषास्ते २६१