तासु सामराजम् ।
श्रीर्वै राज्यम् ।
अश्नुते श्रियं गच्छति राज्यं य एवं वेद ।
तद्वेवाचक्षते संवदिति ।
प्रवता वै देवा स्वर्गं लोकमायन्नुद्वतोदपतन् ।
संवता समाश्नुवत ।
तद्यदेतानि सामानि भवन्ति प्रवतैव स्वर्गं लोकं प्रयन्त्य् । उद्वतोत्पतन्ति ।
संवता समश्नुवते ।
तान्यु वाङ्निधनानि भवन्ति ।
वाचश्छन्दोमैस्समिच्छन्ति ।
आप्तेव वा एतर्हि वाग्भवति ।
छन्दोमेषु तद्यदेतानि वाङ्निधनानि भवन्ति । तामेवैतद्वाचं प्रत्यक्षमुपयन्ति २६०