२५९

अथ दीर्घतमसोऽर्कोऽन्नं वा अर्कोऽन्नाद्यस्यैवावरुद्ध्यै ।

दीर्घतमा वै मामतेयोऽन्नाद्यकामस्तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै सोऽन्नाद्यमवारुन्द्ध ।

तदेतदन्नाद्यस्यैवावरुद्धिस्साम ।

अवान्नाद्यं रुन्द्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।

यदु दीर्घतमा मामतेयोऽपश्यत्तस्माद्दीर्घतमसोऽर्क इत्याख्यायते ।

असावि सोमो अरुषो वृषा हरिर्

इति वृषण्वतीर्भवन्ति बृहतो रूपम् ।

बार्हतमेतदहः ।

राजेव दस्मो अभि गा अचिक्रदत् ।

पुनानो वारमत्येष्यव्ययं श्येनो नयोनिं घृतवन्तमासदत्

पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षय दधे ।

स्वसार आपो अभि गा उदासरन्सं ग्रावभिर्वसते वीते अध्वरे

इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

पशवो हि छन्दोमाः ।

कविर्वेधस्या पर्येषि माहिनमत्यो न निक्तो अभि वाजमर्षसि ।

अपसेधं दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजमिति परिवतीर्भवन्त्यन्तस्य रूपम् ।

अन्तो ह्येतदहः २५९