२५८

अथ यशः ।

यशसा वै देवा यशोऽभवन् ।

यशोऽसामेति सत्रमासते ।

यश एव भवन्ति ।

तच्छ्रीर्वै यशः ।

अश्नुते श्रियं य एवं वेद ।

तदु सप्तत्रिंशदक्षराणधनं भवति ।

षट्त्रिंशदक्षरा वै बृहती ।

बृहती स्वर्गो लोकः ।

असावादित्यस्सप्तत्रिंशः ।

एतस्मिन्नेव तत्स्वर्गे लोकेऽन्ततः प्रतितिष्ठन्ति ।

तस्यो एतां कल्याणीमाशिषमन्तत आशासत

आयुर्विश्वायुर्विश्वं विश्वमायुरशीमही

ति ।

तयैवैतत्समृध्योदृचमश्नुवते ।

अथ शुल्कः ।

शुल्केन वै देवाश्शुल्कोऽभवन् ।

शुल्कोऽसामेति सत्रमासते ।

शुल्क एव भवन्ति ।

तच्छ्रीर्वै शुल्कः ।

अश्नुते श्रियं य एवं वेद ।

तद्वेवाचक्षत आश्वमिति ।

देवा वै स्वर्गकामास्तपोऽतप्यन्त ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै ते स्वर्गं लोकमाश्नुवत ।

तदेतत्स्वर्ग्यं साम ।

अश्नुते स्वर्गं लोकं य एवं वेद ।

अथ भर्गः ।

भर्गेण वै देवा भर्गोऽभवन् ।

भर्गोऽसामेति सत्रमासते ।

भर्ग एव भवन्ति ।

तच्छ्रीर्वै भर्गः ।

अश्नुते श्रियं य एवं वेद ।

अथाभिशवमुभयाभीशुतायै ।

यथा हैकाभीशुना यायादेवं तद्यदन्यतरद् । अथ यथोभयाभीशुना यायादेवं तद्यदुभे ।

एताभ्यां वै द्वादशरात्रोऽरिष्टस्सङ्गृहीत एति ।

अरिष्टेन सङ्गृहीतेन द्वादशरात्रेण पाप्मानं तरति श्रियमश्नुते य एवं वेद २५८