२५७

अथदैर्घश्रवसमन्नं वै दैर्घश्रवसमन्नाद्यस्यैवावरुद्ध्यै ।

दीर्घतमा वै मामतेयस्सनिं प्रयन्नब्रवीद्दीर्घश्रवसं कनीयांसं भ्रातरमेतेषां नो भार्याणामध्यक्ष स्या इति ।

सोऽकामयत दीर्घश्रवा -अवान्नाद्यं रुन्धीय । नेमे भार्या अशनायेयुरिति ।

स एतत्सामापश्यत् ।

तेनाग्निमस्तौद्

यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।

मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये

इति ।

सोऽस्मा अग्नि स्तुतस्सर्वमेवेदं मधुमयमन्नाद्यमकरोत् ।

ते हास्य भार्या आसुर्यथा मध्वश्नन्त एवम् ।

स हैष महानेव रसो । महदेवैतदन्नाद्यम् ।

तेन हैतेन साम्ना महदेवान्नाद्यमवरुन्द्धे ।

यदु दीर्घश्रवा अपश्यत्तस्माद्दैर्घश्रवसमित्याख्यायते २५७