प्रजापतिरन्नाद्यमसृजत ।
तत्क्षयाद्बिभ्यद्दिशो व्युदक्रामत् ।
सोऽकामयतावान्नाद्यं रुन्धीयेति ।
स एतत्सामापश्यत् ।
तेनैनदेऽस्थादिदमेऽस्थादिदमित्येव सर्वाभ्यो दिग्भ्योऽन्नाद्यमवारुन्द्ध ।
स योऽन्नाद्यकाम स्याच्चतुर्ब्रूयात् ।
चतस्रो दिशः ।
दिग्भ्य एवान्नाद्यमवरुन्द्धे ।
अथ य स्वर्गकाम स्यात्त्रिर्ब्रूयात्त्रयो वा इमे लोका -एषां लोकानां समष्ट्यै ।
अथार्कपुष्पमन्नं वा अर्कः ।
तस्यैतत्पुष्पं यदारण्यम् ।
तद्ध्यरण्ये जायत -आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै ।
देवा वै स्वर्गकामास्तपोऽतप्यन्त ।
त एते सामनी अपश्यन् ।
ताभ्यामस्तुवत ।
ततो वै ते स्वर्गं लोकमाश्नुवत ।
ते एते स्वर्ग्ये सामनी ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
तद्यथा वा अदो वृष्टे नियानेऽनुददृशाते एवमेवैताभ्यां स्वर्गो लोकोऽनुददृशे ।
ते उ स्वर्ग्ये ।
अश्नुते स्वर्गं लोकं य एवं वेद २५६