अथ देवस्थानम् ।
एतेन वै तृतीयेन त्र्यहेण देवा ऊर्ध्वा स्वर्गं लोकमायन् ।
स एषामसङ्गृहीतो वीवास्रंसत ।
त एतत्सामापश्यन् ।
तेनैनमेऽस्थादिदं एऽस्थादिदमित्येवास्थापयन् ।
तमेतेनैवादृंहन् ।
तद्यदेतेनास्थापयंस्तद्देवस्थानस्य देवस्थानत्वम् ।
तद्यदत्र देवस्थानं भवत्येतमेवैतत्त्रिरात्रं प्रतिष्ठापयन्त्य् । एतं दृंहन्ति ।
तं संस्कृत्य तेन स्वर्गं लोकमायन् ।
तस्मिन्यत्स्वर्गे लोके समतिष्ठन्त तद्वेव देवस्थानस्य देवस्थानत्वम् ।
ते यत्र स्वर्गं लोकमायंस्तद्धीदं सर्वं सङ्गोपाञ्चक्रे यथास्यैतन्निधनम् ।
तेन हैतेन साम्ना महदेवानपजय्यं जयति ।
तस्यैष श्लोको
वैरूपं देवा अभिसंवसानास्तदातस्थुस्तदु हैषां व्यारते ।
हिङ्कृत्य पुनरारुह्य सर्वं एवाधून्वत जरसं तनूनामिति ।
त एतमेव छन्दोम्यं त्र्यहं संस्कृत्य देवस्थानमेव साम समारुह्य स्वर्गं लोकमगच्छन् ।
तस्यो एवैष श्लोको
यद्वैरूप उपहते व्यद्ध्वे हिङ्कृण्वन्तस्समतिष्ठन्त यामम् ।
तद्देवस्थानमसृजन्त साम तेन देवासो अमृतत्वमायन्
इत्येवामृतत्वमगच्छन् २५५