अथ कौन्मलबर्हिषम् ।
एतेन वै कुन्मलबर्हिरुभयान्पशूनस्पृणोद्गव्यांश्चाश्व्यांश्च ।
तानेवैतेन स्पृणोति ।
कुन्मलबर्हिर्वा अकामयतोभयान्पशूनवरुन्धीय गव्यांश्चाश्व्यांश्चेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
उद्वावृषस्व मघवन्गविष्टय उदिन्द्रो अश्वमिष्टये
इत्येव गव्यांश्चाश्व्यांश्च पशूनवारुन्द्ध ।
तैरु पशुभिरिष्ट्वा स्वर्गमेव लोकमगच्छत् ।
तदेतत्पशव्यं स्वर्ग्यं साम ।
अव पशून्रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद ।
यदु कुन्मलबर्हिरपश्यत्तस्मात्कौन्मलबर्हिषमित्याख्यायते २५४