अथ सङ्कृति ।
त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकमायन् ।
स एषामसङ्गृहीतो वीवावृह्यत ।
तं गायत्रपार्श्वेणैवोदत्तभ्नुवन् । सन्तनिना समतन्वन् । सङ्कृतिना समकुर्वंस् । त्रिषन्धिना समदधुः । श्रायन्तीयेन समश्रीणन्न् । अरिष्टेनारिष्टतामगमयन् ।
त्रिरात्रेण यद्देवा स्वर्गं लोकमायन्नेतेन वै तदायन् ।
स एषां संव्यवृह्यत ।
तस्मिन्नेतानि भूयिष्ठानि सामानि क्रियन्ते ।
एतमेवैतत्त्रिरात्रं भिषज्यन्ति ।
भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।
सङ्कृतिना वै देवाः प्रजाः पशूञ्छ्रियमन्नाद्यं समकुर्वत ।
तत्सङ्कृतिनस्सङ्कृतित्वम् ।
प्रजाः पशूञ्छ्रियमन्नाद्यं संस्कुरुते य एवं वेद ।
तस्यो एते वृकणावा भवन्त्य् । उभय्या एव वाच उपाप्त्यै या च ग्राम्या या चारण्या ।
तच्चतुर्निधनं भवति चतुष्पदा वै पशवः ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै २५३