परीतो षिञ्चता सुतम्
इति परिवतीर्भवन्त्यन्तस्य रूपम् ।
अन्त्यो ह्येतदहः ।
सोमो य उत्तमं हविर्
इत्युत्तमं ह्येतद्धविः क्रियते यच्छन्दोमाः ।
दधन्वां यो नर्यो अप्स्वन्तरा सुषाव सोममद्रि भिः
नूनं पुनानोऽविभिः परि स्रवादब्धस्सुरभिन्तरः ।
सुते चित्त्वाप्सु मदामो अन्धसा
इत्यन्धस्वतीर्भवन्त्यन्नं वा अन्धोऽन्नाद्यस्यैवावरुद्ध्यै ।
श्रीणन्तो गोभिरुत्तरम्
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पशवो हि छन्दोमाः ।
परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षण
इति चतुरृचं भवति चतुष्पदा वै पशवः ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
तासु पृष्ठम् ।
पृष्ठेन वै देवाः पृष्ठमभवन् ।
पृष्ठमसामेति सत्रमासते ।
पृष्ठमेव भवन्ति ।
देवा वा अकामयन्त पृष्ठं स्यामेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते पृष्ठमभवन् ।
तत्पृष्ठं वा अयमग्निरस्य लोकस्य । पृष्ठमयं वायुरन्तरिक्षस्य । पृष्ठमसावादित्यो दिवः ।
तत्पृष्ठमिति वै प्रशंसन्त्यत्र प्रतिष्ठापयन्ति ।
तच्छ्रीर्वै पृष्ठं । वर्ष्म वै पृष्ठम् ।
अश्नुते श्रियं । वर्ष्म भवति य एवं वेद ।
तदूर्ध्वेळं भवति बृहतो रूपं बार्हतेऽहन् ।
तेन वै रूपसमृद्धम् २५२