अथ गौषूक्तं बहिर्निधनं बार्हतम् ।
तस्माद्बार्हतेऽहन्क्रियते ।
गौषूक्तिश्च वा आश्वसूक्तिश्चैषौ ।
तौ ह बहु प्रतिगृह्य गरगिराविव मेनाते ।
तावकामयेतामपेमं गरं गीर्णं हनीवहीति ।
तावेते सामनी अपश्यताम् ।
ताभ्यामस्तुवाताम् ।
तयोरन्यतरोऽग्निराहुत इत्येवेमं लोकमभिनिराजुहोत् ।
अग्निं ह वा अस्मिल्ँ लोके न किञ्चनातिरिच्यते ।
शुक्र आहुत इत्येवान्यतरोऽमुं लोकमभिनिराजुहोत् ।
आदित्यमु ह वा अमुष्मिल्ँ लोके न किञ्चनातिरिच्यते ।
ततो वै तौ तं गरं गीर्णमपाह्नाताम् ।
तत एनयोर्यथा द्विदतः कुमारस्य सातं स्याद् । एवं सातमास ।
यो गरगीर्मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नमशित्वा । स एताभ्यां स्तुवीत ।
अप हैव तं गरं गीर्णं हते ।
यदेनेन किं च पापं कृतं भवति । तदपहते ।
ते उ पञ्चाक्षरणिधने भवतः पञ्चपदा वै पङ्क्तिः ।
पाङ्क्ताः पशवः ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
यदु गौषूक्तिश्चाश्वसूक्तिश्चैषावपश्यतां तस्माद्गौषूक्ताश्वसूक्ते इत्याख्यायते २५१