२५०

अथाङ्गिरसां निवेष्टः ।

अङ्गिरसो वा अकामयन्ताव पशून्रुनधीमहीति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै तान्सर्वाभ्यो दिग्भ्यः पशवोऽभिन्यवेष्टत्वम् ।

तेऽब्रुवन्सं वै न इमा इळा अक्षारिषुरिति ।

पशवो वा इळा ।

तस्माद्विळानां सङ्क्षारः ।

अथ बाभ्रवं ग्वामिर्निधनं बहिर्निधनं बार्हतम् ।

तस्माद्बार्हतेऽहन्क्रियते ।

बभ्रुर्वै कुम्भ्योऽकामयत पशुभिस्सूयेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स ग्वाभिरित्येव निधनमुपैत् ।

ततो वै स पशुभिरसूयत ।

तदेतत्पशव्यं साम ।

अव पशून्रुन्द्धे । बहुपशुर्भवति य एवं वेद ।

यदु बभ्रुः कुम्भ्योऽपश्यत्तस्माद्बाभ्रवमित्याख्यायते ।

अथ ऋषभः पवमानः ।

पशवो वै सिमाः । पशवो रेवतयः । पशव ऋषभः ।

ऋषभमेवैतत्पशुष्वपिसृजन्ति मिथुनत्वाय प्रजननाय ।

प्र मिथुनेन जायते य एवं वेद ।

अथो हैषामेतेनैव सर्वे छन्दोमा ऋषभवन्तः क्रियन्ते २५०