२४९

अथ सैन्धुक्षितम् ।

सिन्धुक्षिद्वा अन्तं वाचोऽपश्यत् ।

वाचं छन्दोमैस्समिच्छन्ति ।

आप्तेव वा एतर्हि वाग्भवति छन्दोमेषु ।

तामेवैतत्संविन्दन्ति ।

अथो अन्त्येन साम्नान्त्यं स्वर्गं लोकमश्नवामहा इति ।

तदैळं भवति ।

पशवो वा इळा ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

अथ हरिश्रीनिधनम् ।

प्रजापतौ ह वा अग्रे श्रीरास ।

स इन्द्रो ऽकामयत येयं प्रजापतौ श्रीर्मय्येषा स्यादिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

तेन हरिश्रीरिति प्रजापते श्रियमहरत् ।

तद्धरिश्रीनिधनस्य हरिश्रीनिधनत्वम् ।

तदेतच्छ्रीस्सवस्साम ।

अश्नुते श्रियं य एवं वेद ।

देवासुरा अस्पर्धन्त ।

तेषु होभयेष्वेव श्रीरास ।

स इन्द्रो ऽकामयत वृञ्जीयासुराणां श्रियमिति ।

स एतत्सामापश्यत् ।

तेन हरिश्रीरित्येवासुराणां श्रियमवृङ्क्त ।

तद्वेव हरिश्रीनिधनस्य हरिश्रीनिधनत्वम् ।

तदेतच्छ्रीरेव साम ।

अश्नुते श्रियं । वृङ्क्त द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद ।

तत्त्र्यक्षरणिधनं भवति त्रयो वा इमे लोका -एषां लोकानां विधृत्यै २४९