२४८

तं हानुसन्द्रुत्योवाच जयाम सङ्ग्राममिति ।

स हाजिनमुपाध्नान उवाच

यथेमाममूर्व्युपापतति भास्विति ।

एवं क्षत्रस्य मानुषाद्व्युपापतत शत्रवः

इति हैवैणेयलोमानि शातयाञ्चक्रे ।

ते हैवाश्वरथा उत्तस्थुः ।

तैर्वै स तं सङ्ग्राममजयत् ।

सोऽब्रवीद्भरद्वाजो न वै दारेऽसृन्मेति ।

यदब्रवीद्भरद्वाजो न वै दारेऽसृन्मेति । तदेवादारसृतोऽदारसृत्त्वम् ।

तदेतद्विजितिर्भ्रातृव्यहा साम ।

विजनते हन्ति द्विषन्तं भ्रातृव्यं । दारे द्विषन्तं भ्रातृव्यं सारयति । नात्मना दारे धावयति ।

अथो सेन्द्र मेव ।

इन्द्रो वा एषामेतेन हवमगच्छद् । आस्येन्द्रो हवं गच्छति य एवं वेद ।

तद्वष्टाक्षरणिधनं भवत्यष्टाक्षरा वै गायत्री ।

अष्टाशफाः पशवः ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

यदु भरद्वाजोऽपश्यत्तस्माद्भरद्वाजस्यादारसृदित्याख्यायते २४८