२४७

इन्द्रो वै सोऽभूत् । तं मोद्धिंसिष्ठास् । तं सखीकृत्य ब्रूताज्जयाम सङ्ग्राममिति ।

श्वो ह भूते परिसस्रुः ।

स हायं तादृशेनैव विवधेन परस्तरामिव नर्तितुं दध्रे ।

तं ह स्म यत्प्रेप्स्यत्य् । अथ ह स्मेतरः परस्तरामेव ।

सा हेक्षाञ्चक्रे हन्तैनमभिवदानीति ।

तं हाभ्युवाद

किं ते मजाक मूत

इति ।

य कल्पितोपनराहि

इतीन्द्रः ।

वि ते मजाक शीयतां महतो जोषवाजिन

इत्युपमा सावेदसी ।

वि चेत्पुत्रक शीयातै समित्तच्चिनवत्पिता

इतीन्द्रः ।

विषं मजाक ते भूयात्प्रावभ्रावेव सर्पत

इत्युपमा सावेदसी ।

विषं चित्पुत्रका सती मृगं तेन हनत्पिता

इतीन्द्रः ।

परो मजाक धावानुकूलं पथैव यन्

इत्युपमा सावेदसी ।

परश्चित्पुत्रका सत्युपकूलं पितायति

इतीन्द्रः ।

प्रियो मे महिरो दृशे हस्तेनाभिमृशात्तत

इत्युपमा सावेदसी ।

हिमिति स्म कुरुथा पेवस्म हस्तमस्यथ

किमोभूत्कथोभूत्

कथार्मे महिरः प्रियो हस्तेनाभिमृशात्तत

इटीन्द्रः ।

एवोऽभूत्ततोऽभूत्

यथा ते महिरः प्रियो हस्तेनाभिमृशात्तत

इतीन्द्रः ।

एवोऽभूत्ततोऽभूत्

यथा ते महिरः प्रियो हस्तेनाभिमृशात्तत

इत्युपमा सावेदसी २४७