२४६

अथ होपमा सावेदसी कल्याण्यास क्षत्रस्य प्रातर्दनस्य जाया ।

तस्यै ह भ्रातरं जघ्नुः ।

तद्ध धुवनमास ।

तां ह परिधावन्तीमिन्द्रो ऽभिदध्यौ ।

स ह शुष्काजिनं परिधायाभ्यवेयाय ।

तस्य ह विवधे अपूपमूत इतरार्धेऽपासक्त आसामिक्षा सर्पिषा संयतेतरार्धे ।

स हास्या अन्तिकं नर्तितुं दध्रे ।

तां ह स्म नयत्सर्पिषा प्रलिम्पति ।

तं ह स्म यदपसेधत्य् । अथ ह स्मास्या अन्तिकमेव नृत्यति ।

सायमास । व्यपेयुः ।

तां ह पतिः पप्रच्छ किमत्र किञ्चिद्दिवादोऽद्रा क्षीरिति ।

सा होवाच न नु ततोऽन्यत् । स्थविर एव मेऽद्यान्तिकमनर्तीत् ।

तस्य विवधेऽपूपमूत इतरार्धेऽपासक्तोऽभूदामिक्षा सर्पिषा संयतेतरार्धे ।

तं यदपासीत्स मथमेद्यान्तिकमेवानर्तीदिति ।

स होवाचा वै न इन्द्रो हवमगमत् ।

जेष्यामो वा इमं सङ्ग्रामम् २४६