२४५

पवमानस्य जिघ्नत

इति बृहतो रूपं । हरेश्चन्द्रा इति जगत्यै ।

पवमानो रथीतमश्शुभ्रेमिश्शुभ्रशस्तमः ।

हरिश्चन्द्रो मरुद्गणः

इति मरुत्वतीर्भवन्ति ।

मरुत्वद्वै मध्यन्दिनस्य रूपम् ।

मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।

पवमान व्यश्नुही

ति वैश्वदेवं रूपमुपगच्छन्ति ।

वैश्वदेवं ह्येतदहः ।

ता घ्नद्वतीर्भवन्ति ।

अन्तो नवममहः ।

अन्तमेवैतदागत्यैताभिस्सर्वं पाप्मानमपघ्नते ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथ गातुविन्निधनम् ।

गातुं विन्दामहा इति सत्रमासते ।

गातुमेव विन्दन्ते ।

तदुपरिष्टोभवद्भवति बहिर्निधनं बार्हतम् ।

तस्माद्बार्हतेऽहन्क्रियते ।

तद्वेवाचक्षते भरद्वाजस्यादारसृदिति ।

क्षत्रं वै प्रातर्दनं दाशराज्ञे दश राजानः पर्यतन्त मानुषे ।

तस्य ह भरद्वाजः पुरोहित आस ।

तमुपाधावदृष । उप त्वा धावाम ।

इह नः प्रजानीहीति ।

सोऽकामयत भरद्वाजो जयेम सङ्ग्राममिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

सोऽब्रवीत्स्तुत्वा -आ वै न इन्द्रो हवं गमिष्यति ।

जेष्यामो वा इमं सङ्ग्राममिति २४५