२४४

प्र मित्रयोर्वरुणयोर्

इति मैत्रावरुणं भवति ।

स्तोमो न एतु शूष्यः ।

नमस्वांस्तुविजातयोः

इति जनद्वत् ।

नवममेवैतेनाहः प्रजनयन्ति ।

या धारयन्त देवा

इति धृत्यै ।

अन्तमिव ह्येतर्हि गच्छन्ति । छान्दोमेभ्यो नेत्पराञ्चोऽतिपद्यामहा इति ।

सुदक्षा दक्षपितरा ।

असुर्याय प्रमहसा

ता नः स्तिपा तनूपा वरुणा जरितॄणाम् ।

मित्र साधयतं धियः

इति सिद्ध्या एव ।

महं इन्द्रो य ओजसे

त्यैन्द्रं भवति ।

महद्ध्येतदहर्यदष्टाचत्वारिंशम् ।

पर्जन्यो वृष्टिमं इव ।

स्तोमैर्वत्सस्य वावृधे

इति वृद्धं ह्येतदहः ।

कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्

इति सिद्ध्या एव ।

प्रजामृतस्य पिप्रत इति जनद्वत् ।

नवमादेवैतदह्नो दशममहः प्रजनयन्ति ।

नवमाद्वा एतदह्नः प्रजातं यद्दशममहः ।

यद्द्वितीयस्याह्न षन्द्रा ग्नं तदैन्द्रा ग्नं बार्हतम् ।

बार्हतं ह्येतदहः ।

समयीन्याज्यानि भवन्ति ।

नानाग्रामाविव ह वा एतौ यत्पृष्ठ्यश्च षडहश्छन्दोमाश्च ।

स यथा नानाग्रामौ मित्राणि व्यतिषज्याभय आसीयातां तादृक्तद्यत्समयीन्याज्यानि भवन्ति ।

असमयीनि हैके कुर्वन्ति ।

तस्मात्समयीन्येव कार्याणि अष्टाचत्वारिंश स्तोमो भवति ।

अष्टाचत्वारिंशदक्षरा वै जगती ।

पशवो जगती ।

पशवश्छन्दोमाः ।

पशुष्वेवैतज्जगत्यां प्रतितिष्ठन्तो यन्ति २४४