अगन्म महा नमसा यविष्ठम्
इति गद्वन्त्याज्यानि भवन्ति ।
गच्छन्तीव वा एते य एतदहरागच्छन्ति ।
यो दीदाय समिद्ध स्वे दुरोण
इति दीद्यन्त्येवैनमेतेन ।
चित्रभानुं रोदसी अन्तरूर्वी
इतीमे ह वाव रोदसी इदमेवान्तरिक्षं मरुतः ।
स्वाहुतं विश्वतः प्रत्यञ्चम्
इति प्रत्यङ्ह्येष त्रियहस्तायते ।
स मह्ना विश्वा दुरितानि साह्वान्
इति विश्ववतीर्भवन्ति ।
वैश्वदेवं ह्येतदहः ।
अग्नि ष्टवे दम आ जातवेदाः ।
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः
इत्याशिषमेवैतेनाशास्ते ।
त्वं वरुण उत मित्रो अग्न
इत्याग्नावारुणी भवति । दुरिष्टस्यैवावेष्ट्यै ।
यद्ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एषा वेष्ट्यै ।
त्वां वर्धन्ति मतिभिर्वसिष्ठा
इति वृद्धं ह्येतदहः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिस्सदा न
इत्याशिषमेवैतेनाशास्ते २४३