दशर्चं भवति दशाक्षरा विराट् ।
अन्नं विराड् विराज एवान्नाद्यस्यावरुद्ध्यै ।
अष्टर्चं भवति ।
अष्टाचत्वारिंशमेवैवैतेन स्तोममभिवदति ।
अथो अष्टाक्षरा वै गायत्र्यष्टाशफाः पशवः ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
इन्द्रो वै वृत्रमहन् ।
तं वृत्रं जघ्निवांसमेभ्यो लोकेभ्यस्सर्वाणि भूतान्यन्ववदन्नेष वीर । एष वृत्रहति ।
वीर्यमेवास्मिंस्तदभिपूर्वमदधुः ।
वीर्यमिव वा एष चक्रिवान्भवति वृत्रमिव जघ्निवान्य एतदहरागच्छति ।
तद्यदेष इति भव त वीर्यमेवास्मिंस्तदभिपूर्वं दधति ।
तदाहुरृतुमान्पृष्ठ्यष्षडहोऽनृतवश्छन्दोमाः ।
अनृताविव वा एते प्रतिष्ठिता यच्छन्दोमा इति ।
तद्यदेतानि पञ्चर्च षडृचानि भवन्ति तेनैवर्तुमन्तश्छन्दोमाः क्रियन्ते ।
स वानुत्तमष्षडृचो भवति ।
यदा वै प्रत्यक्षं भवत्यथैष इत्याचक्षते । यदा परोक्षमथ स इति ।
परोक्षमिवैते यन्ति य एतदहरागच्छन्ति ।
तस्मात्स वानुत्तमष्षडृचो भवति येन प्रयन्ति ।
तेनोद्यन्ति ।
अष्टाचत्वारिंश स्तोमो भवति ।
अष्टाचत्वारिंशदक्षरा वै जगती ।
पशवो जगती ।
पशवश्छन्दोमाः ।
पशुष्वेवैतज्जगत्यां प्रतितिष्ठन्तो यन्ति २४२