२४१

ता एता भवन्ति त्रिष्टुभो जगद्वर्णा अह्नो रूपेण समृद्धाः ।

यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते ।

समस्मा ऋध्यते य एवं वेद ।

एष देवो अमत्य

इति सूक्तमनुरूपो भवति पशवो वै सूक्तम् ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

अथो भूमा वै पशवः ।

भूमा सूक्तम् ।

पशूनामेवैतत्पशूननुरूपान्कुर्वन्ति ।

नात्र प्रत्यक्षानुरूपान्कुर्वन्ति ।

तस्मात्पशवो नानारूपाञ्जनयन्त्युत श्वेता कृष्णं जनयत्य् । उत कृष्णा श्वेतम् । उत रोहिणी कन्माषम् । उत कन्माषी रोहितम् ।

तासु समानप्रभृतयो भवन्ति नानोदर्काः -एष देवो अमर्त्य । एष देवो विपा कृत । एष देवो विपन्युभुरिति ।

इदं वै प्रथमं पदम् । इदं द्वितीयं अदस्तृतीयम् ।

तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते ये द्वादशाहयाजिनः ।

अन्तमिव हि गच्छन्ति तद्यदेतास्समानप्रभृतयो भव्न्ति नानोदर्काः ।

अस्मिन्नेवैतल्लोके प्रतितिष्ठन्ति ।

नानाप्रभृतयस्समानोदर्काष्षष्ठेऽहन्भवन्ति ।

अमुष्मिन्नु ताभिर्लोके प्रतितिष्ठन्ति २४१