२४०

अक्रान्समुद्रः परमे विधर्मन्न्

इति परमो वा अश्वः पशूनां । परमस्समुद्रः । परमं नवममहस् । तस्मादेता नवमेऽहन्क्रियन्ते ।

जनयन्प्रजा भुवनस्य गोपा

इति जनद्वतीर्भवन्ति ।

जनद्वद्वै जगत्यै रूपम् ।

जागतमेतदहः ।

वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रि र्

इति वृषण्वतीर्बृहद्वतीर्भवन्ति बृहतो रूपम् ।

बार्हतमेतदहः ।

महत्तत्सोमो महिषश्चकारे

ति महद्ध्येतदहर्यदष्टाचत्वारिंशम् ।

अपां यद्गर्भोऽवृणीत देवान् ।

अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः

इति जनद्वतीर्भवन्ति ।

प्रातस्सवनादेवैतन्नवममहः प्रजनयन्ति ।

मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।

मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम

इति सर्वदेवत्यं भवति ।

वैश्वदेवं ह्येतदहर्जागतम् २४०