तदु हैव कुमारिकाः क्रीळन्तीर्जहुः ।
स एव यौषितो गिरिरभवत् ।
अथ हवा इमानि वनानीमाच्च नद्योऽपरतार आस पुरा सिन्धोरासुः ।
तौ ह पश्चात्परीत्य प्राचीः प्ररुरुधतुः ।
ततो यान्युक्षशर्धतान्यासंस् । तानीमानि लवणानि ।
अथ ये तस्थुस् । त एते क्षुद्रा वनस्पतयोऽभवन् ।
अथ ह वा इमानि पीरुस्तच्छमैतद् । अथ या नदीस्तारयाञ्चक्रुस् । ता इमा नद्यो विवसतिहोत्तमास्तारयाञ्चक्रुः ।
तासु ह तार्यमाणासु सिन्धोरप्रियमास ।
स होवाच
ननु ब्रह्मेति शुश्रुम गाथिनं पितरं तव ।
कुतस्त्वा सहस्रमागमद्विश्वामित्र बलं तव
इति ।
स होवाच
उत पुत्रो ममतायै गर्भे दीर्घतमा वदन् ।
विपश्चित्तदभ्यजायत यज्ञस्याङ्गानि कल्पयन्
कथोदन्वः पणायसि
इति ।
ततो वै ते तान्पशूनविन्दन्त ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु विश्वामित्रोऽपश्यत्तस्माद्वैश्वामित्रमित्याख्यायते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठन्ति २३९