तद्वेवाचक्षते वैश्वामित्रमिति ।
भरता ह वै सिन्धोरपरतार आसुरिक्ष्वाकुभिरुद्बाढाः ।
तेषु ह विश्वामित्रजमदग्नी ऊषतुः ।
स हेन्द्रो भयदमासमात्यं हरी ययाच ।
तौ हास्मै न ददौ ।
तयोर्हादत्तयोर्जुहावेन्द्र क्रोश इति ।
अम्मकस्तस्मिंस्तिष्ठन्विश्वामित्रजमदग्नी । इमा इक्ष्वाकूणां गा विन्दध्वमिति ।
तद्धेमावपरतारे सन्ती शुश्रुवतुः ।
तौ होचतुर्भरतानिन्द्रो वै नावयं ह्वयतीमा इक्ष्वाकूणां गा विन्दध्वमिति ।
एत । गा विन्दामहा इति ।
तौ वै न इमं गाधं कुरुतमिति ।
ते वै युङ्ध्वमिति ।
ते ह युयुजिरे ।
ते हाभ्यवेयुः ।
तौ होचतुर्या वः पल्पूलन्यस्ता अपास्यतेति ।
ता हापासुः ।
अथ ह राजन्यबन्धुर्यस्मै पल्पूलन्यास । तां हाधोऽक्षं बबन्ध ।
तावकामयेतां गाधो नावयं स्यादिति ।
स एतद्विश्वामित्रस्सामापश्यत् ।
तेनास्तुत ।
पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः
त्वं वलस्य गोमतोऽपावरद्रि वो बिलम् ।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
इत्येता आवदन्तौ प्रत्यैताम् ।
उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारव
इति हैवाप उपतस्थिरे ।
ताभ्यां ह गाध आस ।
ते ह गाधेनातिययुः ।
तद्यस्मिन्नियं पल्पूलन्यास । तद्धैवापोऽवचिछिन्दुः ।
अनशद्वा इयमिति त एव नंशवः ।
योगो नोद्यत इति त एवायोगव इति ।
इदमेवाद्य वसामेति त एव वसातयः २३८