२३७

तद्वेवाचक्षतेऽङ्गिरस्यानां सामेति ।

अङ्गिरस्या ह वै नामर्षीणां पुत्रा आसुः ।

तेऽकामयन्त स्वर्गं लोकमश्नुवीमहीति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै ते स्वर्गं लोकमाश्नुवत ।

तदेतत्स्वर्ग्यं साम ।

अश्नुते स्वर्गं लोकं य एवं वेद ।

यद्वङ्गिरस्या अपश्यंस्तस्मादङ्गिरस्यानां सामेत्याख्यायते ।

तद्वेवाचक्षते मारुतमिति ।

मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम । जयेम स्वर्गं लोकमिति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानामासन्न् । अजयन्स्वर्गं लोकम् ।

ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति जयति स्वर्गं लोकं य एवं वेद ।

यदु मरुतोऽपश्यंस्तस्मान्मारुतमित्याख्यायते २३७