स त्रिशोकस्सद्य एवालोम्नो कर्णकान्पशूनुदसृजत ।
तेऽत्राभ्यातप्ता न्यमृच्य न्यमहन् ।
सैषो प्राभवत् ।
तस्मादाहुर्गावो प्रेति ।
तस्माद्वमांसाशी प्रायु नाश्नीयात् ।
अथ हैकेऽभितप्यमानानाः प्रत्यञ्चः प्राद्र वन् ।
ते सिन्धुं प्राविशन् ।
तल लवणमभवत् ।
तस्मादाहुर्गावो लवणमिति ।
तस्मादु यो लवणेन पणञ्चरति । गाव एव भवन्ति ।
अथ मेधातिथिस्संवत्सरमुपप्रास्तृणीत पशुकामः ।
स एतस्मादेव वलादश्माभिधानात्पशूनुदसृजत
त्वं वलस्य गोमत
इति ।
तदेतत्पशूनामुत्सृष्टिस्साम ।
अव पशून्रुन्द्धे । बहुपशुर्भवति य एवं वेद ।
यदु मेधातिथिरपश्यत् । तस्मान्मैधातिथिमित्याख्यायते २३६