ततः पशवोऽसृज्यन्त ।
ये प्रथमेऽसृज्यन्त । त इम एतर्हितनाः पशवः ।
तदु हैव हिरण्यशृङ्गीर्द्व्यूध्नीरनूदेयुः ।
तदु हैव हिरण्यचण्डातकौ वसानेऽप्सरसावनूदेयतुः ।
ते गृहपतिरभिदध्यौ ।
स होवाअ मम वा इमे । येऽहं मम गार्हपत्येऽवारुत्सि ।
गृहपतेर्वाव सर्वर्द्धिरिति ।
नेति होचतुस्सनक-नवकौ । पशुकामस्त्वमासिष्ठाः ।
ते तवैते पशवः ।
जनिकामावावम् ।
तयोरावयोरिमे जाये इति ।
तद्धैव संवदमानेष्वन्यतरामभिपेदे ।
सा ह प्रतिजघ्ने ।
सैषा यस्या एतत्कबलिकमिव ।
अथ हान्यतरा विसिष्मिये ।
सैषा हरिणिका ।
तस्मादेते पशून्सेवते पश्वाजानेहि ।
अथ हेमा हिरण्यशृङ्गीर्द्व्यूध्नीर्यत एवोदेयुस्तत्पुनरभ्यवदुद्रुवुरनृतं गृहपतिरकृत् ।
न वै वयं तस्य स्मो योऽनृतं करोतीति ।
ता हैता अप्यद्य क्रूरर्षभा विभिन्दुके शारीर्भूता वेदयन्ते ।
काण्वायनौ ब्रह्मण्यस्पर्धेतां मेधातिथिश्च त्रिशोकश्च ।
तावब्रूतामेह्यग्निं समिद्धमत्ययावेति ।
तावग्निं समिद्धमत्यैताम् ।
उपर्युपर्येव त्रिशोकोऽत्यैद् । अथैतरस्य पक्ष्माण्युदौषत् ।
तमब्रवीदजैषं त्वेति ।
नेत्यब्रवीद् । असुरीप्त्र एव त्वमसि देवता एव त्वया संस्पृष्टं नाचीकमन्तेति ।
तौ वा -एह्यपोऽत्ययावेति ।
तौ ह रथस्यां विष्यण्णामत्यैताम् ।
उपत्युपत्येव त्रिशोकोऽत्यैद् । अथेतरस्य पवी अत्रायेताम् ।
तदेवार्द्र पवि रथस्पायै ।
तमब्रवीदजैषं त्वेति ।
नेत्यब्रवीद् । असुरीपुत्र एव त्वमसि ।
देवता एव त्वया संस्पृष्टं नाचीकमन्तति ।
तौ वा -एहि पशूनुत्सृजावहा इति २३५