२३४

अथ मैधातिथम् ।

मेधातिथिगृहपतयो वै विभिन्दुकीयास्सत्रमासत ।

तेषां दृढच्युदागस्तिरुद्गातासीद्गौरीवितिः प्रस्तोताच्युतच्युत्प्रतिहर्ता वसुक्षयो होता सनक-नवकौ काव्यावध्वर्यू ।

पशुकामो मेधातिथिर्जनिकामौ सनक-नवकौ । यत्कामा इतरे तत्कामाः ।

नानाक्रामा ह स्म वै पुरा सत्रमासते ।

ते ह स्म नानैव कामानृद्ध्वाप्त्वोतिष्ठन्ति ।

तेषां ह स्मेन्द्रो मेधातिथेर्मेषस्य रूपं कृत्वा सोमं व्रतयति ।

तं ह स्म बाधन्ते मेधातिथेर्नो मेषस्सोमं व्रतयतीति ।

स उ ह स्मैषां स्वमेव रूपं कृत्वा सोमं व्रतयति ।

ततो ह वा इदमर्वाचीनं मेधातिथेर्मेष इत्याह्वयन्ति ।

स एतन्मेधातिथिः पशुकामस्सामापश्यत् ।

तेनास्तुत ।

पुरां भिन्दुर्युवा कविर्

इत्येव वलमभिनत् ।

त्वं वलस्य गोमतोऽपावरद्रि वो बिलम्

इत्येतया बिलमपावृणोत् २३४