तासु सांवर्तं पदनिधनं राथन्तरम् ।
तस्माद्रा थन्तरेऽहन्क्रियते ।
संवर्त आङ्गिरस स्वर्गकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स पतिर्दिवः पतिर्दिव इत्येव स्वर्गं लोकमारोहत् ।
यथाह पतेदेवमेतद्यत्पतिर्दिव इति ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
यदु संवर्त आङ्गिरसोऽपश्यत्तस्मात्सांवर्तमित्याख्यायते ।
देवासुरा अस्पर्धन्त ।
तेऽसुरा महदभिव्यासत ।
स इन्द्रो ऽकामयत सार्धमेवासुरान्संवृत्य हन्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
त्वं हि शश्वतीनामिन्द्र धर्ता पुरामसि ।
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः
इत्येवैनान्सार्धं संवृत्याहन् ।
तद्वेव सांवर्तस्य सांवर्तत्वम् ।
सार्धमेव संवृत्य द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद २३३