अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।
अथौशनम् ।
उशना वै काव्यो देवेष्वमर्त्यं गन्धर्वलोकमैच्छत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स देवेष्वमर्त्यं गन्धर्वलोकमाश्नुतैतं रोमण्वन्तम् ।
ते हैते काव्याः ।
रोमण्वत्यश्नुते देवेष्वमर्त्यं गन्धर्वलोकमेतेन तुष्टुवानः ।
अग्निर्वै देवेष्ववसत् ।
तं देवा नाप्रीणन् ।
सोऽप्रीयमाण उशनसं काव्यमागच्छत् ।
तमब्रवीदृषे प्रीणीहि माऽप्रीतो वा अस्मीति ।
तमकामयत प्रीणीयामेनमिति ।
स एतत्सामापश्यत् ।
तेनैनमप्रीणात् ।
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् ।
अग्ने रथं न वेद्यमित्येवैनं प्रियतममतिथिमकुरुत ।
अप्रीत इव ह वा एष एतर्हि भवति यज्ञमूहिवान् ।
तमेतदत्र प्रीणन्ति ।
स प्रीतो यदत्र यज्ञस्य परिशिष्टम्भवति तद्वहति ।
यदूशना काव्योऽपश्यत्तस्मादौशनमित्याख्यायते ।
एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।
गिरिर्न विश्वतः पृथुः पतिर्दिवः
अभि हि सत्य सोमपा
इत्यभीति भवति रथन्तरस्य रूपम् ।
राथन्तरमेतदहः ।
उभे बभूथ रोदसी
इतीमे ह वाव रोदसी ।
एते एवैतदभिवदति ।
इन्द्रा सि सुन्वतो वृधस्पतिर्दिव
इति वृद्धं ह्येतदहर्यच्चतुश्चत्वारिंशम् २३२