तासु धर्म ।
धर्मणा वै देवा धर्ममादायासुराणां विधर्मणैनान्विधर्मणः कृत्वा पराभावयन् ।
धर्मणैव धर्ममादाय द्विषतो भ्रातृव्यस्य विधर्मणैनं कृत्वा पराभावयति य एवं वेद ।
तच्छ्रीर्वै धर्मो । राज्यं वै धर्मो । धर्मेण वै राजा धर्मो । धर्म स्वानां भवत्य् । षनं स्वा यन्ति । धर्मणो धारयति ।
तदाहुर्नवमेऽहनि कार्यम् ।
अदो वै क्षत्रं यद्बार्हतम् ।
अथेदं विड्राथन्तरमिति ।
तदु वा आहुर्विधर्माणो वै राजानो न वै तेऽन्यैर्मनुष्यै स्वधर्माणः ।
इदमु वाव क्षत्रं यच्चतुश्चत्वारिंशं त्रैष्टुभम् ।
तस्मान्नवम एवाहन्विधर्म स्यादिहैतदिति ।
हिन्वन्ति सूरमुस्रय स्वसारो जामयस्पतिम् ।
महामिन्दुं महीयुवः
इति महद्ध्येतदहर्यच्चतुश्चत्वारिंशम् ।
तासु विशोविशीयमुक्तब्राह्मणम् ।
तदैळं भवति पशवो वा इळा ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै २३१