अथ रयिष्ठं मध्येनिधनं भवति प्रतिष्ठायै ।
समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानमुपयन्ति ।
तद्यन्मध्येनिधनं भवति प्रतिष्ठित्या एव ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
सोऽकामयत न मत्पशवोऽपक्रामयुर् । अभि मा वर्तेरन्निति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै तं पशवोऽभ्यावर्तन्त ।
ततोऽस्मादनपक्रमिणोऽभवन् ।
सोऽब्रवीदस्थाद्वा इयं मयि रयिरिति ।
तदेव रयिष्ठस्य रयिष्ठत्वम् ।
तदेतत्पशव्य साम ।
तिष्ठत्यस्मिन्न्रयिर् । अभ्येनं पशव आवर्तन्ते । नास्मात्पशवोऽपक्रामन्ति य एवं वेद ।
तदध्यर्धेळं भवति पशवो वा इळा ।
पशवश्छन्दोमा -अभिपूर्वाणामेव पशूनामवरुद्ध्यै ।
अथैता द्विपदा भवन्त्युक्तब्राह्मणाः ।
ता एता भवन्ति
पवस्व सोम महान्समुद्र
इति ।
महद्ध्येतदहर्यच्चतुश्चत्वारिंशम् ।
पिता देवानां विश्वाभि धामे
त्यभाति भवति रथन्तरस्य रूपम् ।
राथन्तरमेतदहः २३०