२२९

अथ पाञ्चवाजम् ।

एतेन वै पञ्चवाजाः कौत्स उभे अन्धसी व्यपपीत यच्च दैव्यं यच्च मानुषम् ।

ते एवैतेन विपिपीते ।

पञ्चवाजा वै कौत्सोऽकामयतोभे अन्धसी विपिपीय यच्च दैव्यं यच्च मानुषमिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै ते स उभे अन्धसी व्यपिपीत यच्च दैव्यं यच्च मानुषम् ।

ततो ह स्म वै स सुरादृतिमुपाधाय सोमार्थं धारयति ।

तदेतदन्नाद्यस्यावरुद्धिस्साम ।

उभे अन्धसी विपिपीते यच्च दैव्यं यच्च मानुषं य एवं वेद ।

यदु पञ्चवाजाः कौत्सोऽपश्यत्तस्मात्पाञ्चवाजमित्याख्यायते ।

अथ क्रौञ्चम् ।

क्रुङ्ङाङ्गिरस ईष्यमिवाहरविन्दत् ।

ईष्या इवैते यच्छन्दोमाः ।

तस्माच्छन्दोमेषु क्रियते ।

तन्मध्येस्वारं भवति ।

प्राणो वै स्वरः ।

अभिषज्या इवैते यच्छन्दोमाः ।

द्वे द्वे अहनी समस्ताः ।

तद्यन्मध्ये स्वारं भवति प्राणमेवैतच्छन्दोमेषु दधति भिषज्यन्त्येवैनानेतेन २२९