२२८

अथ शुद्धाशुद्धीयम् ।

इन्द्रो वा असुरान्हत्वापूत इवामेध्योऽमन्यत ।

सोऽकामयत शुद्धमेव मासन्तं शुद्धेन साम्ना स्तुयुरिति ।

स ऋषीनब्रवीत्स्तुत मेति ।

त एतदृषयस्सामापश्यन् ।

तेनैनमस्तुवन् ।

एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।

शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु

इति ।

ततो वा इन्द्र श्शुद्धः पूतो मेध्योऽभवत् ।

तदेतत्पवित्रं साम ।

शुद्धः पूतो मेध्यो भवति य एवं वेद ।

अथौदलम् ।

उदलो वै दैवरातोऽकामयताग्रो मुख्यो ब्रह्मवर्चसी स्यामिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै सोऽग्र्यो मुख्यो ब्रह्मवर्चस्यभवत् ।

अग्रिया मुख्या ब्रह्मवर्चसिनोऽसामेति सत्रमासते ।

अग्रिया एव मुख्या ब्रह्मवर्चसिनो भवन्ति ।

तत्स्वारमनुष्टुभि क्रियते । रूपसमृद्धतायै ।

गायत्रयोनि सदनुष्टुभि क्रियते ।

द्वन्द्वं वै भूत्वा पशवो वीर्याण्युद्यच्छन्ति ।

पशवश्छन्दोमाः ।

तस्माच्छन्दोमेषु क्रियते ।

यदुदलो दैवरातोऽपश्यत्तस्मादौदलमित्याख्यायते २२८