२२७

तास्वैषिरं वायोरार्षेयम् ।

वायुर्वा इषिरः ।

यद्वै सत्रिणां सत्रे विनश्यते तदेभ्यो वायुरपिरोहयति ।

प्राणो वै वायुः ।

प्राण एवैभ्यस्तद्भिषज्यति ।

भेषजमेवैतेन प्रायश्चित्तिं कुर्वत ।

प्राणा शिशुर्महीनाम्

इति पशुरूपमेवैतदुपगच्छन्ति ।

पशूनां वै शिशुर्भवति ।

तासु त्रैतमुक्तब्राह्मणम् ।

अभी नो वाजसातमम्

इत्यभीति भवति रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ।

रयिमर्ष शतस्पृहम् ।

इन्दो महस्रभर्णसं तुविद्युम्नं विभासहमिति ।

यद्वै शतवत्सहस्रवत्तच्छन्दोमानां रूपम् ।

पशवो वै छन्दोमाः ।

परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युत

इति मद्वतीर्भवन्ति ।

अभिपूर्वमेवैतत्तृतीयसवने रसं मदं दधति ।

वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।

नि नेदिष्ठतमा इष स्याम सुम्ने ते अध्रिगो

इति गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।

पशवो हि छन्दोमाः ।

तासु गौरिवीतमुक्तब्राह्मणम् २२७