२२६

अथ स्वाशिरामर्कोऽन्नं वा अर्कोऽन्नाद्यस्यैवावरुद्ध्यै ।

स्वाशिरो वै नामाप्सरस इमा एवौषधयः ।

ता अकामयन्त बह्वी स्याम । प्रजायेमहि । वीमं लोकमाप्नुयामेति ।

ता एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै ता बह्वीय आसन् । प्राजायन्त । वीमं लोकमाप्नुवन् ।

सोऽयं सर्वो लोक ओषधीभिस्सञ्छन्नोऽपि गिरयः ।

तदेतत्प्रजननं साम ।

बहुः प्रजया पशुभिः प्रजायते । वीमं लोकमाप्नोति य एवं वेद ।

यदु स्वाशिरोऽप्सरसोऽपश्यंस्तस्मात्स्वाशिरामर्क इत्याख्यायते ।

अभि द्युम्नं बृहद्यश

इत्यभीति भवति रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ।

जिन्वन्गविष्टये धिय

इति गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।

पशवो हि छन्दोमाः २२६