अथ प्रमंहिष्ठीयम् ।
ऋषीणां वै सत्रमासीनानां पशव उपादस्यन् ।
तेऽकामयन्ताव पशून्रुन्धीमहीति ।
ते होचुरेताग्निमेव पशून्याचाम ।
स वाव पशूनामीशे ।
स एव नः पशून्प्रदास्यतीति ।
त एतत्सामापश्यन् ।
तेनैनमस्तुवन्
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये
इति ।
तानब्रवीत्किङ्कामा स्थेति ।
पशुकामा इत्यब्रुवन् ।
तेभ्य एतेनैव साम्ना पशून्प्रायच्छत् ।
तेऽब्रुवन्प्रमंहिष्ठो वै नोऽभूदिति ।
तदेव प्रमंहिष्ठीयस्य प्रमंहिष्ठीयत्वम् ।
तदेतत्पशव्यं साम ।
प्रमंहिष्ठो हास्मा एष भवत्य् । अव पशून्रुन्द्धे । बहुपशुर्भवति य एवं वेद ।
तत्पुनर्नितुन्नं छन्दो भवति ।
यत्र यत्र वै देवा छन्दसां रसमन्वविन्दंस्तत्पुनर्नितुन्नमकुर्वंस्तत्पुनरभ्याघन्न् ।
धीता इवैते य चे छन्दोमास्तृतीयसवनायतनाः ।
धीतमिव वै तृतीयसवनम् ।
तद्यत्पुनर्नितुन्नं छन्दो भवति रसमेवैतच्छन्दोमेषु दधति ।
रसस्यैवैषामनुवित्तिः २२५