२२४

अथ काक्षीवतम् ।

कक्षीवान्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय । श्रियं राज्यं गच्छेयमिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स बहुः प्रजया पशुभिः प्रजायत श्रियं राज्यमगच्छत् ।

ते ह वै सहस्रं काक्षीवता आसुः ।

तैर्ह वै स पुत्रै श्रियं राज्यं जगाम ।

अश्नुते श्रियं गच्छति राज्यं य एवं वेद ।

तदु स्तोभानुतुन्नं भवति ।

अनुतुन्नाद्वै प्रजाः पशवः प्रजायन्ते ।

पशवश्छन्दोमाः ।

तेन वै रूपसमृद्धम् ।

यदु कक्षीवानपश्यत्तस्मात्काक्षीवतमित्याख्यायते २२४