अथ सुरूपं रूपस्यैव समृद्ध्यै ।
आङ्गिरसो वै तपस्तेपानास्ते रूपेण वर्चसा व्यार्ध्यन्त ।
तेऽकामयन्त सं रूपेण वर्चसर्ध्येमहीति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते सं रूपेण वर्चसार्ध्यन्त ।
तेऽब्रुवन्सुरूपा वा अभूमेति ।
तदेव सुरूपस्य सुरूपत्वम् ।
सं रूपेण वर्चसर्ध्यते य एवं वेद ।
सुरूप आङ्गिरसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स एतामिळामुपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु सुरूप आङ्गिरसोऽपश्यत्तस्मात्सुरूपमित्याख्यायते ।
प्रजापतिः पशूनसृजत ।
तेषां सृष्टानां रूपाणि न प्राज्ञायन्त ।
स एतानि सुरूपाणि सामान्यपश्यत् ।
तैरेषां रूपाण्यदधात् ।
तत्सुरूपाणां सुरूपत्वम् ।
रूपण्वतः पशूनवरुन्द्धे य एवं वेद ।
अर्कसामानो वै छन्दोमास्सुरूपरूपाः ।
सामन्वद्भी रूपण्वद्भिश्छन्दोमै स्तुते य एवं वेद ।
तत्पुनर्नितुन्नं छन्दो भअति ।
यत्र यत्र वै देवा छन्दसां रसमन्वविन्दंस्तत्पुनर्नितुन्नमकुर्वंस् । तत्पुनरभ्याघ्नन् ।
धीता इवैते यच्छन्दोमास्तृतीयसवनायतनाः ।
धीतमिव वै तृतीयसवनम् ।
तद्यत्पुनर्नितुन्नं छन्दो भवति रसमेवैतच्छन्दोभेषु दधति ।
रसस्यैवैषानुवित्तिः २२३