पवस्व देव आयुषग्
इति त्रिष्टुभो रूपेण प्रयन्ति ।
त्रैष्टुभमेतदहः ।
इन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा
इति मद्वतीर्भवन्ति ।
रसो वै मदः ।
धीतमिवैतद्यत्तृतीयसवनम् ।
तद्यदेता मद्वतीर्भवन्ति रसमेवास्मिन्नेतद्दधत्य् । एवैनदेतेन प्याययन्ति ।
पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
इन्दो समुद्र मा विश
इति समुदवतीर्भवन्ति छन्दोमानां रूपम् ।
समुद्रो वै छन्दोमाः ।
अपघ्नन्पवसे मृध
इति मृध एवैतेन पाप्मानमपघ्नते ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथ मादिलं पदनिधनं राथन्तरम् ।
तस्माद्रा थन्तरेऽहन्क्रियते ।
देवा वा अकामयन्त मद्वान्नस्सोम स्यात्सोममदस्य माद्येमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै तेषां मद्वान्सोमोऽभवत्सोममदस्यामाद्यन् ।
तदेव मादिलस्य मादिलत्वम् ।
तद्र सो वै मदः ।
रसेन ह वाव ते तन्मेदुः ।
मद्वानस्य सोमो रसवान्भवति य एवं वेद ।
अथो हैषामवारुद्धा इव छन्दोमा स्युर्यदेतदत्र कुर्युः ।
धीता इवैते यच्छन्दोमास्तृतीयसवनायतनाः ।
धीतमिव वै तृतीयसवनम् ।
तद्यदत्र मादिलं भवति रसमेवैतच्छन्दोमेषु दधत्यैवैनाएतेन प्याययन्ति २२२