२२१

तासु वैयश्वम् ।

व्यश्वं वै साकमश्वं गर्भे सन्तं गयः पितृव्यः पर्यपश्यदृषिर्जनिष्यत इति ।

तं जातं परास्तावब्रवीज्जातक्षेणोऽजनीति ।

तं छाया नाजहात् ।

स्वावस्मा अङ्गुष्ठो प्रास्नुताम् ।

तदस्मा आचक्षत यं वै कुमारं परास्तावब्रवीरयं वै स जीवतीति ।

तं मुसलमादायाभ्यैद्धनिष्यन् ।

सोऽकामयतोदित इयां । गातुं नाथं विन्देयेति ।

स एतत्सामापश्यत् ।

तदभ्यगायत ।

तदस्य मुसलं प्रत्यक्पतित्वा शिरोऽछिनत् ।

तदेतद्भ्रातृव्यहा गातुविन्नाथवित्साम ।

हन्ति द्विषन्तं भ्रातृव्यं । विन्दते गातुं नाथं य एवं वेद ।

यदु व्यश्वोऽपश्यत् । तस्माद्वैयश्वमित्याख्ययते ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठन्ति २२१