तासु वाशं पदनिधनं राथन्तरम् ।
तस्माद्रा थन्तरेऽहन्क्रियते ।
ते देवा अकामयन्त वशमसुराणां वृञ्जीमहीति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ते वाश इत्येव वशमसुराणामवृञ्जत ।
तदेव वाशस्य वाशत्वम् ।
वृङ्क्ते द्विषतो भ्रातृव्यस्य वश य एवं वेद ।
क ईं वेद सुते सचे
ति सतोबृहतीराक्रमन्तेऽनपभ्रंशाय ।
तासु नैपातिथम् ।
काण्वायनानां सत्रमासीनानां पशव उपादस्यन् ।
तेऽकामयन्ताव पशून्रुन्धीमहीति ।
स एतन्नेपातिथिः काण्वस्सामापश्यत् ।
तेनास्तुत ।
ततो वै ते पशूनवारुन्धत ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु नेपातिथिः काण्वोऽपश्यत्तस्मान्नैपातिथमित्याख्यायते ।
उभयं शृण्वव्च न
इत्युभे एवैतेन रूपे समारभते यच्च पृष्ठ्यस्य षडहस्य यदु च छन्दोमानाम् ।
तस्मादु हैतस्यां द्वयोस्संयजमानयोर्ब्रह्मसाम कुर्यात् २२०