अथ बार्हदुक्थम् ।
बृहदुक्थ आङ्गिरसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स एतामिळामुपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु बृहदुक्थ आङ्गिरसीऽपश्यत्तस्माद्बार्हदुक्थमित्याख्यायते ।
धर्ता दिवः पवते कृत्वियो रस
इत्यह्नो धृत्यै ।
दक्षो देवानामनुमाद्या नृभिर्
इति छन्दांस्येवैतद्दक्षयन्त्यह्नो वीर्यवत्त्वाय ।
तासूद्वत्त्रिप्ररोहम् ।
तृतीयो ह्येष प्ररोहः क्रियते । यदेष तृतीयस्त्रियह । स्वर्गस्य लोकस्य समष्ट्यै ।
तद्वेवाचक्षते विशालमिति ।
देवा वै स्वर्गकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तदेनान्विशालमेव भूत्वा स्वर्गं लोकमवहत् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा विशालं वाव नो भूत्वेदं साम स्वर्गं लोकमवाक्षीदिति ।
तदेव विशालस्य विशालत्वम् ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
तद्यथा ह वै ब्रध्नस्य विष्टपान्येवमेतानि विशालस्य विष्टपानि स्वर्गस्यैव लोकस्य समष्ट्यै ।
प्र स्वर्गं लोकमाप्नोति य एवं वेद ।
अथ रथन्तरम् ।
ब्रह्म वै रथन्तरम् ।
ब्रह्मण्येवैतत्प्रतितिष्ठन्तो यन्ति ।
तत्त्रैष्टुभेऽहन्भवति ।
पुंसो वा एतद्रू पं यत्त्रिष्टुप् । स्त्रियै रथन्तरम् ।
तद्यदत्र रथन्तरं पृष्ठं भवति । तेनैवैतदहर्मिथुनं क्रियते ।
अथ वामदेव्यम् ।
पशवो वै वामदेव्यम् ।
पशुमन्त एव भवन्त्येतेन तुष्टुवानाः ।
यदिन्द्र प्रागपागुदग्
इतीन्द्र मेवैतत्सर्वाभ्यो दिग्भ्यो ह्वयन्ति ।
आप्तेष्वहस्सु यद्यस्यां दिश्यसि यद्यस्यां यद्यस्यामिति २१९